(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.9. अध्यायः 009
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरस्य निर्वेदवचनम्॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

युधिष्ठिर उवाच। 12-9-0x(6717)(81131)
मुहूर्तं तावदेकाग्रो मनः श्रोत्रेऽन्तरात्मनि।
धारयन्नपि ते श्रुत्वा रोचते वचनं मम॥ 12-9-1(81132)
सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः।
गच्छेयं तं गमिष्यामि हित्वा ग्राम्यसुखान्युत॥ 12-9-2(81133)
क्षेम्यश्चैकाकिना गम्यः पन्था कोस्तीति पृच्छ माम्।
अथवा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु॥ 12-9-3(81134)
हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः।
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह॥ 12-9-4(81135)
जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन्।
कृशः परिमिताहारश्चर्मचीरजटाधरः॥ 12-9-5(81136)
शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः।
तपसा विधिदृष्टेन शरीरमुपशोषयन्॥ 12-9-6(81137)
मनःकर्णसुखा नित्यं श्रृण्वन्नुच्चावचा गिरः।
मुदितानामरण्येषु नदतां मृगपक्षिणाम्। 12-9-7(81138)
आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम्॥
नानारूपान्वने पश्यन्रमणीयान्वनौकसः॥ 12-9-8(81139)
वानप्रस्थजनस्यापि दर्शनं कूलवासिनः।
नाप्रियाण्याचरिष्यामि किंपुनर्ग्रामवासिनाम्॥ 12-9-9(81140)
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्।
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्॥ 12-9-10(81141)
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्।
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम्॥ 12-9-11(81142)
अथवैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ।
चरन्भैक्षं मुनिर्मुण्डः क्षपयिष्ये कलेवरम्॥ 12-9-12(81143)
पांसुभिः समभिच्छन्नः शून्यागारप्रतिश्रयः।
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः॥ 12-9-13(81144)
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः।
निराशीर्निर्ममो भूत्वा निर्द्वन्द्वो निष्परिग्रहः॥ 12-9-14(81145)
आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः।
अकुर्वाणः परैः कांचित्संविदं जातु कैरपि॥ 12-9-15(81146)
जङ्गमाजङ्गमान्सर्वानविहिंसंश्चतुर्विधान्।
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति॥ 12-9-16(81147)
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीः क्वचित्।
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः॥ 12-9-17(81148)
अपृच्छन्कस्यचिन्मार्गं प्रव्रजन्नेव केनचित्।
न देशं न दिशं कांचिद्गन्तुमिच्छन्विशेषतः॥ 12-9-18(81149)
गमने निरपेक्षश्च पश्चादनवलोकयन्।
ऋजुः प्रणिहितो गच्छन्स्त्रीसंस्थापरिवर्जकः॥ 12-9-19(81150)
स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि।
द्वन्द्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन्॥ 12-9-20(81151)
अल्पं वा स्वादु वा भोज्यं पूर्वालाभेन जातुचित्।
अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन्॥ 12-9-21(81152)
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने।
अतीतपात्रसंचारे काले विगतभिक्षुके॥ 12-9-22(81153)
एककालं चरन्भैक्षं त्रीनथ द्वे च पञ्च वा।
स्नेहपाशं विमुच्याहं चरिष्यामि महीमिमाम्॥ 12-9-23(81154)
अलाभे सति वा लाभे समदर्शी महातपाः।
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्॥ 12-9-24(81155)
जीवितं मरणं चैव नाभिनन्दन्न च द्विपन्।
वास्यैकं तक्षतो बाहुं चन्दनेनैकपुक्षतः।
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः॥ 12-9-25(81156)
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः।
सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः॥ 12-9-26(81157)
तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः।
अपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मपः॥ 12-9-27(81158)
विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः॥ 12-9-28(81159)
वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि मानसीम्।
तृष्णया हि महत्पापमज्ञानादस्मि कारितः॥ 12-9-29(81160)
कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः।
कार्यकारणसंश्लिष्टं स्वजनं नाम ब्रिभ्रति॥ 12-9-30(81161)
आयुपोऽन्ते प्रहायेदं क्षीणप्राणं कलेवरम्।
प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत्॥ 12-9-31(81162)
एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत्।
समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान्॥ 12-9-32(81163)
जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम्।
अपारमिव चास्वस्थं संसारं त्यजतः सुखम्॥ 12-9-33(81164)
दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु।
को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित्॥ 12-9-34(81165)
कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम्।
पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते॥ 12-9-35(81166)
तस्मात्प्रज्ञामुतमिदं चिरान्मां प्रत्युपस्थितम्।
तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम्॥ 12-9-36(81167)
एतया संततं धृत्या चरन्नेवंप्रकारया।
जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम्।
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः॥ ॥ 12-9-37(81168)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि नवमोऽध्यायः॥ 9॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-9-1 मुहूर्तं तावदेकाग्रो मनः श्रोत्रेऽन्तरात्मनि। धारयन्नपि तच्छुत्वा रोचेत वचनं ममेति झ. पाठः। 12-9-8 पेशलान्रभ्यान्॥ 12-9-15 आत्मारामः योगेनात्मन्येव रममाणः। प्रसन्नात्मा शुद्धसत्वः। केनचिन्निमित्तेन संविदं संवादमकुर्वाणः कृत्याभावात्॥ 12-9-16 चतुर्विधान् जंगमस्य जरायुजाण्डजस्वेदजभेदेन त्रैविध्यात्। स्वधर्मस्थाः प्राणभृत इन्द्रियपोषकाश्च प्रजाः प्रति सम इत्यन्वयः॥ 12-9-18 केनचिन्मार्गेण॥ 12-9-19 प्रणिहितोऽन्तर्मुखः॥ 12-9-21 पूर्वालाभेन पूर्वस्मिन् गृहेऽलाभेः हेतुना जातु कदाचित्। अन्येष्वपि गृहेषु लाभं लब्धमन्नं चरन्भक्षयन्॥ 12-9-22 भैक्षकालमाह विधूमे इति। गृहे इति शेषः॥ 12-9-23 त्रीन्गृहान्॥ 12-9-24 जिजीविषुवद्धनादिसंग्रहम्। मुमूर्षुवदन्नादित्यागम्॥ 12-9-25 वासी तक्षायुधं तया॥ 12-9-26 निमेषोन्मेषाशनपानादिशारीरनिर्वाहमात्रकर्मस्ववस्थित इतर्थः॥ 12-9-27 तेष्वपि कर्मसु असक्तः। अपरित्यक्तो नित्यं वशीकृतः संकल्पो मनः क्रियायेन। दृढमना इत्यर्थः। सुनिर्णिक्तात्मकल्मषः सम्यग्दूरीकृतधीमलः॥ 12-9-28 वागुराः स्नेहपाशान्॥ 12-9-30 एके मूढाः कार्यकारणसंश्लिष्टं स्वसुखेन निमित्तभूतेन संलग्नं स्त्र्यादिकं बिभ्रत्यात्मोपकारकत्वेन पुष्णन्ति। कुशलाकुशलान्येवं कृत्वा कर्गाणि मानवः। कार्यकारणसंश्लियः स्वजनं नाभिनन्दति इति ड. पाठः॥ 12-9-32 व्याविद्धे भ्राम्यमाणे। समेति संयोगमेति॥ 12-9-35 विविधं सामाद्युपायवत् विविधलक्षणं नानाविधकपटादिरूपं कर्म कृत्वा स्वल्पैः पार्थिवैः क्षुद्रराजभिर्तृपतिर्महाराजो बध्यते। कारणैः स्वापमानादिभिर्हेतुभिः बहवो मिलित्वा एकं महान्तं घ्नन्तीत्यर्थः॥ 12-9-36 यस्माद्दुःखमयं क्षयिष्णु च ऐश्वर्यं तस्मात्। स्थानं मोक्षम्। अव्ययमपक्षयशून्यम्। शाश्वतमनादि। ध्रुवं सदैकरूपम्॥ 12-9-37 संस्थापयिष्यामि समापयिष्यामि॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.